দ্বিতীয় সেমিস্টার একাদশ শ্রেণীর প্রতিজ্ঞাসাধনম্ সংস্কৃত টেক্সট পাঠ্যাংশটি SEMESTER-2 পাঠ্য হিসেবে নির্দিষ্ট। পাঠ্যাংশটি দেবনাগরী হরফে নিচে দেওয়া হল।
Table of Contents
একাদশ শ্রেণীর প্রতিজ্ঞাসাধনম্ সংস্কৃত টেক্সট
प्रतिज्ञासाधनम् (शिवराजविजयम्)
প্রথম অংশঃ প্রতিজ্ঞাসাধনম্ সংস্কৃত টেক্সট
मासोऽयमाषाढः, अस्ति व सायं समयः, अस्तं जिगमिषुर्भगवान् भास्करः सिन्दूर-द्रव-स्नातानामिव वरुण-दिगवलम्बिनामरुण-वारिवाहानामभ्यन्तरं प्रविष्टः। कलविङ्ङ्काश्चाटकैर-स्तैः परिपूर्णेषु नीडेषु प्रतिनिवर्तन्ते।
वनानि प्रतिक्षणमधिकाधिकां श्यामतां कलयन्ति। अथाकस्मात् परितो मेघमाला पर्वतश्रेणीव प्रादुरभूत्, क्षणं सूक्ष्मविस्तारा, परतः प्रकटित-शिखरि शिखर-विडम्बना, अथ दर्शित-दीर्घ-शुण्डमण्डित-दिगन्त-दन्तावल-भयानकाकारा ततः पारस्परिक संश्लेष-विहित-महान्धकारा च समस्तं गगनतलं पर्यच्छदीत्।
দ্বিতীয় অংশঃ প্রতিজ্ঞাসাধনম্ সংস্কৃত টেক্সট
अस्मिन् समये एकः षोडशवर्ष-देशीयो गौरो युवा हयेन पर्वतश्रेणीरुपर्युपरि गच्छति स्म। एष सुघटितदृढशरीरः श्याम-श्यामैर्गुच्छ गुच्छेः कुञ्चित-कुञ्चितैः कच-कलापैः कमनीय-कपोलपालिः दूरागमनायासवशेन सूक्ष्म-मौक्तिक-पटलेनेव स्वेदबिन्दुव्रजेन समाच्छादित-ललाट-कपोल-नासाग्रोत्तरष्ठः प्रसन्न-वदनाम्भोज-प्रदर्शित-दृढसिद्धान्त-महोत्साहः, राजतसूत्र-शिल्पकृत-बहुल-चाकचक्य-वक्र-हरितोष्णीष-शोभितः, हरि-तेनैव च कञ्चुकेन व्यूढगूढचरता-कार्यः, कोऽपि शिववीरस्य विश्वासपात्रं सिंहदुर्गात् तस्यैव पत्रमादाय तोरणदुर्गं प्रयाति।
তৃতীয় অংশঃ প্রতিজ্ঞাসাধনম্ সংস্কৃত টেক্সট
तावदकस्मादुत्थितो महान् झञ्झावातः, एकः सायंसमयप्रयुक्तः स्वभाव-वृत्तोऽन्धकारः, स च द्विगुणितो मेघमालाभिः। झञ्झावातोद्धूतैः रेणुभिः शीर्णपत्रैः कुसुमपरागैः शुष्कपुष्पैश्च पुनरेष द्वैगुण्यं प्राप्तः। इह पर्वत-श्रेणीतः पर्वतश्रेणीः, वनाद् वनानि, शिखराच्छिखराणि प्रपातात् प्रपातान्, अधित्यकातोऽधित्यकाः, उपत्यकात उपत्यकाः, न कोऽपि सरलो मार्गः, नानुद्धेदिनी भूमिः, पन्थाः अपि च नावलोक्यते।
क्षणे-क्षणे हयस्य खुराश्चिक्कण-पाषाण-खण्डेषु प्रस्खलन्ति। पदे पदे दोधूयमानाः वृक्षशाखाः संमुखमाध्नन्ति, परं दृढसङ्कल्पोऽयं सादी (अश्वारोही) न स्वकार्याद् विरमति। परितः स-हडहडाशब्दं दोधूयमानानां परस्सहस्त्र-वृक्षाणां, वाताघात-सञ्जात-पाषाण-पातानां प्रपातानाम्, महान्धतमसेन ग्रस्यमानानामिव सत्त्वानां क्रन्दनस्य च भयानकेन स्वनेन कवलीकृतमिव गगनतलम्। परं “देहं वा पातयेयं कार्यं वा साधयेयम्” इति कृतप्रतिज्ञोऽसौ शिववीरचरो निजकार्यान्न विरमति।