Class XI (Semester I) কৃপণঃ কপালী

Class XI (Semister-I) কৃপণঃ কপালী নাট্যাংশটি পশ্চিমবঙ্গ উচ্চমাধ্যমিক শিক্ষা সংসদ প্রবর্তিত নতুন পাঠক্রম (2024) অনুসারে একাদশ শ্রেণীর ছাত্র ছাত্রীদের জন্য দেবনাগরী লিপিতে তুলে ধরা হল।

কৃপণঃ কপালী

নাট্যাংশকৃপণঃ কপালী
রচয়িতাশ্রীজীব ন্যায়তীর্থ
উৎসচিপিটকচর্বণম্
চরিত্র সংখ্যা৫ টি
শ্রেণীএকাদশ
সেমিস্টারপ্রথম

পশ্চিমবঙ্গ উচ্চমাধ্যমিক শিক্ষা সংসদ প্রবর্তিত একাদশ শ্রেণীর নতুন পাঠক্রম (2024) অনুসারে ‘কৃপণঃ কপালী’ নাট্যাংশটি দেবনাগরী লিপি (সংস্কৃত বর্ণমালা) তে দেওয়া হল।

कपाली- अरे दुष्टे पापिष्ठ दासि !

मन्थरा- (युक्तपाणिः) देव ! किं मामाकारयसि ?

रङ्गिणी- (मुखेऽङ्गुलिमर्पयित्वा शनैर्निष्क्रान्ता)।

कपाली- किं वधिरासि ? अरे गर्भदासि !

आतपवर्षात्राणं हर्षाय यच्छरणमापन्नानाम्।

कर्तितबालद्रुमवत् पथि तत्पातितमहो स्पर्धा।।

मम पुत्रपौत्रसुखभोग्यं छत्रमिदं निक्षिपसि निर्दयम् ?

मन्थरा- (नासाकर्णं स्पृष्ट्वा) ईदृशमकार्यं पुनर्नाहं करिष्यामि । तन्मर्षयतु मां महाभागः । सत्यं कथयामि पङ्गुरामेण भृत्येन तव जीर्णं पादुकायुगलं निक्षिप्तमिति दृष्ट्वा मयापि छत्रं परित्यक्तम् ।

कपाली- किं नाम मम पुरातनं पादुकायुगलं भृत्येन दूरीकृतम् ? अरे मम दुर्भाग्यदुर्ग्रह ! दासापसद ! कथय क्व तावत् पादुकाद्वयं निक्षिप्तवानसि ?

(प्रविश्य)

भृत्यः- कर्तः ! अलीकं कथयति दासी। तथाविधस्य कुकार्यस्य कारको न भवति ते चतुरो दासः ।(एकः कुक्कुरः पादुकामुखो धावन् निष्क्रान्तः)

मन्थरा- कर्तः । पश्य पश्य । अयं कुक्कुरः पादुकामुखो धावति।

कपाली- हम् ! दृष्टो मया कुक्कुरः। यावत् पादुकामाच्छेत्तुमेनमनुधावामि ।(छत्रं कक्षे निधाय धावन् निष्क्रान्तः ।)

मन्थरा- अरे धूर्त ! मिथ्याकथनं न सहते देवोऽपि। धर्मकुक्कुररूपं धारयन् देवो झटित्यागतः।

पड्गुरामः- तिष्ठ, अहमपि पश्यामि तवैकं दिनमुत ममैके दिनम्।

मन्थरा- त्वं किं मे करिष्यसि (इत्यङ्गुष्ठं दर्शयति)।

(नेपथ्ये कुक्कुरशब्दः)

पड्गुरामः- तर्कयामि कर्ता कुक्कुरं प्रहृत्य पादुकामाच्छिद्य गृह्णाति । यावदयं प्रत्यावर्तते तावत् पलायिष्ये।

मन्थरा- अद्य खलु प्रहारेण पङ्गुरामस्य पृष्ठचर्मोत्पाटितं भविष्यति । यावत् प्रेक्षे पादुका लब्धा न वेति ।

रङ्गिणी- (प्रविश्य) अहो दुर्दैवम् ! कार्पण्यदोषात् पत्युर्मे बुद्धिविकारो जातः। अन्यथा कुक्कुरमुखात् पादुकाग्रहणाय धावति वा कश्चिदपि सुस्थः पुरुषः ? कस्य पादुका शुना नीयते को जानाति ? कर्ता कुक्कुरेण दष्टः सन् गृहे प्रत्यावर्तते। क्षरति रुधिरघारा पाददेशात्। अरे मन्थरे ! त्वमत्र निश्चिन्ता तिष्ठसि ! सत्वरं गच्छ वैद्यमाह्वय।

दासी- हा धिक् ! हा धिक् ! यदाज्ञापयति भीं।(ततः प्रविशति कुक्कुरदष्टः स्रवद्रुधिरः कपाली ।)

कपाली- हा कष्टम् ! कुक्कुरेण दष्टोऽस्मि। छत्रेण प्रहरतो मे छत्रमपि भग्नम्। पादुकामपि भक्ष्यमाणां बलादाच्छिन्दन् सारमेयेणाक्रान्तः पलायमानः पदे दष्टोऽस्मि। न मे दंशने व्यथा तच्छत्रं भग्नं पादुकाद्वयं गतमित्यवसीदामि। हा धिक् !

रङ्गिणी- अहो रक्तधारा। हा विधे! (एकं कटं विस्तीर्य) त्वमत्र शयानो विश्रामं कुरु । वैद्यमानेतुं मन्थरा मया प्रेषिता ।

कपाली- मा हताशे ! नवोऽयं कटः कथं भूमौ पातितो न मलिनो भविष्यति ? आनय पुरातनं कटम् । कथं वा वैद्य आहूतः ? दर्शनीं को दास्यति ?

रङ्गिणी- आः किं प्रलपसि ? कटेऽस्मिन् कुरु शयनम्। पुरातने छिन्नकटे शायितं त्वां दृष्ट्वा वैद्यः किं कथयिष्यति ? चिकित्सार्थ दातव्या दक्षिणेति कथं व्ययादुद्विजसे । जीवनं तु रक्षणीयम्।(ततः प्रविशति मन्थरया दर्शितमार्गो वैद्यः)

वैद्यः- क्व तावद् गृहस्वामी ? अयमहमस्मि वैद्यः ।

रङ्गिणी- (किं चिदवगुण्ठनं नाटयित्वा) आगच्छतु भवान् । अत्रैव वर्तते रोगी।

वैद्यः- भोः श्रेष्ठिन् ! कस्ते रोगः ?

कपाली- (मुखं विकृतं कृत्वा) कस्ते रोगः ? न दृश्यते रुधिरधारा क्षरन्ती ?

रङ्गिणी- कुक्कुरेण दष्टो मे पतिः ।

वैद्यः- कीदृशेन कुक्कुरेण ? कथं कदा वा दष्टः ?

रङ्गिणी- नास्माकं परिचितेन। नापि वा घटिकायन्त्रं दृष्टं मया।

वैद्यः- तर्हि कुक्कुरदंशनमिति कथं ज्ञातम् ? नाडीं दर्शय श्रेष्ठिन् ! (हस्तनाडी परीक्ष्य) नाडी न समीचीना। लक्षणं प्रतिकूलं प्रतिभाति। प्रहृतेन कुक्कुरेण क्रुद्धेनाक्रम्य दष्ट इत्युच्यताम्। इदानीमेवायं गव्यघृतमुष्णदुग्धेन सह पाययितव्यः ।

कपाली- (मुखं विकृतं कृत्वा स्वगतम्) गव्यघृतम् ? महामूर्खाऽयं यदाधुनिक वनस्पतिघृतमवज्ञाय दुर्मूल्यं दुष्प्रापं नाममात्रपरिचितं गोघृतं व्यवस्थापयति ।

रङ्गिणी- वैद्यवर ! पश्य पश्य पत्युर्मेऽधरस्पन्दनम् । नास्य वाक् प्रसरति ।

वैद्यः- उपचीयते विकारलक्षणम्। तर्हि सद्य एव सम्यगुत्तप्तलोहशलाकया क्षतस्थानदाहो विधेयः ।

कपाली- (स्वगतम्) अहो चातुरी! अल्पं क्षतं वर्धयित्वा चिकित्सां करिष्यति वैद्यः । तद्व्याजेन मेधनलुण्ठनं भवेत् ।

वैद्यः- गृहकत्रिं ! शृणु यदि मम चिकित्सा न कृता भवेत् तदा जलात‌ङ्करोगेणाक्रान्तः कुक्कुरवद्रवं कृत्वा समीपवर्तिनः सवनिव दक्ष्यति ।

रोगी- तानपि पुनरुन्मत्तान् विधाय स्वयं मरिष्यति। गृहजनाश्च पश्चान्मरिष्यन्ति ।

रङ्गिणी- सत्वरमानयामि लोहशलाकाम्। करोतु भवानपि समुचितां चिकित्साम्। (निष्क्रान्ता)।

कपाली- (कुक्कुरशब्दं कृत्वा वैद्यं नखदन्तेनाक्रमितुं चेष्टते)।

वैद्यः- अहो विपत्तिः ! किं स्वप्राणान् परिहरामि ? तिष्ठतु मे दक्षिणा। (धावन् निष्क्रान्तः)।

कपाली- अहो आपद् गता । निश्चिन्तोऽस्मि सांप्रतम् । तथापि हृदयं मे विदीर्यते छत्रं तथा पादुकायुगलं मे विनष्टं चिराय।

Class XI (Semester I) অন্যান্য Text বই দেবনাগরী লিপিতে

(FAQ) ‘কৃপণঃ কপালী’ নাট্যাংশ সম্পর্কে জিজ্ঞাস্য?

১. ‘কৃপণঃ কপালী’ নাট্যাংশটি কোন্ মূল গ্রন্থ থেকে গৃহীত?

চিপিটকচর্বণম্।

২. ‘কৃপণঃ কপালী’ নাট্যাংশটির রচয়িতা কে?

শ্রীজীব ন্যায়তীর্থ।

৩. ‘কৃপণঃ কপালী’ কোন্ শ্রেণীর কাব্য?

প্রহসন।

৪. ‘কৃপণঃ কপালী’র নায়ক কে?

কপালী।

Leave a Comment