উচ্চ মাধ্যমিক শিক্ষা সংসদ কর্তৃক নির্ধারিত দ্বাদশ শ্রেণীর বাসন্তিকস্বপ্নম্ নাট্যাংশটির মূলপাঠ নিম্নে সংস্কৃত ভাষায় দেবনাগরী লিপিতে তুলে ধরা হল ।
Table of Contents
দ্বাদশ শ্রেণীর বাসন্তিকস্বপ্নম্ সংস্কৃত নাট্যাংশ
বাসন্তিকস্বপ্নম্ নাট্যাংশটির মূলপাঠ দেওয়া হল –
বাসন্তিকস্বপ্নম্ – প্রথম অংশ
राजा – प्रिये कनकलेखेऽद्य कुहूर्तेयं दवीयसी ।
चतुर्भिर्दिवसैभाविन्यप्यहं दीनमानसः ।।
वसामि मदनाक्रान्तः शशाङ्कस्त्वतिनिर्घृणः
यतोऽसौ क्षीयमानोऽपि क्षीयते सत्वरं न मे ।।
अस्मदुद्वाहमुद्दिश्य सोऽस्मि पर्युत्सुकः सखि ।
किं करोमि वरारोहे, नाड़िकाऽपि युगायते ।।
कनकलेखा – वल्लभ ! दिनचतुष्टयं तु प्रायो रात्रचतुष्टयं भूत्वा क्षणमिव निद्रालुभिरस्माभि नयमानमचिरेणैव दर्शमानेष्यति यस्य निशायामावयोः परिणयमहोत्सवो भविष्यति तत् किमिति दूयते महाराजेन ।
বাসন্তিকস্বপ্নম্ – দ্বিতীয় অংশ
राजा – रे प्रमोद, गच्छ सम्प्रति प्रतिरथ्य मस्मन्नगरस्य तथा कुरुष्व यथा सर्वेऽपि युवानो महोत्सवाभिनिविष्टचित्ता: परमाह्लादभरिता वर्तेरन् । दुःखं विद्रावय वैवस्वतनगरमावर्जय सर्वतः प्रमोदम्
प्रमोदः – यथाज्ञापयति देवः । (इति प्रणम्य निष्क्रान्तः)
राजा – प्रणयवति कनकलेखे, तस्मादद्य तादृशमप्रशस्तमार्गमुज्झित्वा महोत्सवप्रमोदप्रसाधनपूर्वं त्वां परिणेष्ये ।
বাসন্তিকস্বপ্নম্ – তৃতীয় অংশ
(नेपथ्ये पदशब्द इव निपुणं निरूप्य) किमयमागच्छन् वृद्धः कोपशोकाविष्ट इव दृश्यते । तमनु काचिदिन्दुवदना च (ततः प्रविशति इन्दुशमी कौमुदी च)
इन्दुशमी – (हस्तमुद्यम्य) विजयतामस्माकमवनिपः ।
राजा – नमो भवत इन्दुशर्मन्, कथं कार्यातुर इव दृश्यते भवान् ?
इन्दुशमी – राजन्नियं मे दुहिता मदाज्ञामुल्लङ्घ येदित्यतिदुःखितोऽहम् । महाराज, दीयतां दयार्द्र चित्तम् । यावदियं वराकी मकरन्दमुपयम्य मन्मतन्नानुवर्तते तावदस्मद्देशाचारमनुसृत्य पित्राज्ञाऽतिवर्तिनोऽपत्यस्य यावान्दण्डो विहितस्तावन्तमेषाऽनुभवत्वित्याज्ञां दत्त्वाऽहमनुग्राह्यपक्षे गणयितव्य इति प्रार्थये ।
বাসন্তিকস্বপ্নম্ – চতুর্থ অংশ
राजा – (कोमुदीं प्रति) कथय वासु, किं वा युक्तं समयविरुद्धाचरणम् अपि च, रमणीयोऽयं तरुणस्ते वरो मकरन्दः ।
कौमुदी – महीपते, ! तथैव वसन्तोऽपि ।
राजा – वालिके, ! वसन्तः प्रियदर्शनोऽपि पितृपक्षपातोऽस्मिन्निति तव प्रेयान्मकरन्द एव ।
कौमुदी – यदि मे जनको वीक्षते मदीक्षणेनैनं वसन्तं तदा वहुमानयिष्यति स एव मन्मानसम्।
राजा – परं तद्विवेचनामाश्रित्य खलु वीक्षणीयं त्वया ।
कौमुदी – करुणानिधे क्षम्यतां दासजन स्यायमपराधः । न जाने केन वा कारणेन मे मनस्येता दृशनिर्णयो जातः । विस्मृतं च मया किं कर्तव्यम्।
राजा – अयि भद्रे, दर्शनीयं ते वपुः, अयातयामं वयः । यदि पितरं नानुवर्तसे तदा शरणं भवति मरणमथवा यावज्जीवं परिणयाकरणम्। एतादृशकुलसमयाचारविरुद्धगामिन्या सुखं नाम कथं भवेत् । एषा ते मतिर्न कल्याणी, न कदापि सुखावहा । अतः जनकस्य ते आदेशः पालनीयः ।
कौमुदी – महाराज, वसन्तं विहाय नान्यं पश्येयम् । तदर्थं जीवितमपि त्यजेयम् यावदायुः परिणयं विनापि वसेयम् । एष एव निश्चयोऽस्याः मन्दभागिन्याः । (नेपथ्ये मृदङ्गध्वनिः)
বাসন্তিকস্বপ্নম্ – পঞ্চম অংশ
कणकलेखा – राजन्, सङ्गीतशालाभ्यन्तरे वहवः अस्मदागमनं प्रतीक्षन्ते ।
राजा – परं कार्यपरतया विस्मृतमेत्सर्वमपि । तत्त्वरितं गम्यते । अयि कौमुदि, सम्यगालोच्य तातमेवानुसर नोचेद्भज मरणम् । अस्मद्दण्ड नीतिरित्यवधार्यताम्। प्रिये कनकलेखे, सम्प्रति साधयामः ।
(सर्वे निष्क्रान्ता:)